OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 30, 2024

 केरले वयनाट् जनपदे त्रिषु स्थानेषु भूविच्छेदः - १९ मरणानि। 

चूरल्मलप्रेशे दुरापन्नस्य भूविच्छेदस्य दृश्यम्। 

रक्षादौत्यं दुष्करं ; सेतुः विशीर्णः, अनेके परिवाराः अप्रत्यक्षाः। 

वयनाट्> केरलस्य वयनाट् जनपदस्थे चूरल् मला, मुण्टक्कै, अट्टमला स्थानेषु महाभूविच्छेदः दुरापन्नः। ह्यः रात्रौ आसीत् दुरन्तः।  अनेके वासगृहाणि भूस्खलनम् अनुबन्ध्य जाते गिरिजलप्रवाहे विशीर्णानि। कति जनाः दुरन्तलग्नाः इति निर्णेतुमधुना अशक्यं भवति। १९ मृतदेहाःअधिगताः। 

  दुरन्तस्थानानि प्राप्तुं एकैव सेतुः विशीर्णः इत्यतः रक्षाप्रवर्तनं दुष्करं वर्तते। रक्षणसंघस्य मुण्टक्कै प्रदेशं प्राप्तुं न शक्नोति। तत्र गन्तुं एकैव सेतुः दुरापन्ने प्रवाहितः। अतः मुण्टक्कै अट्टमला प्रदेशौ पृथगीकृतौ वर्तेते। 

  चूरल् मला प्रदेशे एव रक्षाप्रवर्तनानि पुरोगच्छन्ति। तत्रस्थ सर्वकारीय उच्चविद्यालयः भूविच्छेदेन विशीर्णः अभवत्।