OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 30, 2024

 वयनाट् भूविच्छेददुरन्तः - ७३  मृतशरीराणि अधिगतानि। 

रक्षादौत्याय सर्वाः संस्थाः एकीभूयन्ते। प्रधानमन्त्रिणः साह्यहस्तः। 

मुण्टक्कै>  केरले वयनाट् जनपदे ह्यः रात्रौ दुरापन्ने भूविच्छेदे इतःपर्यन्तं ७३ मृतदेहाः अधिगताः। ३३ शरीराणि प्रत्यभिज्ञातानि। २५० जनाः दुर्घटनास्थानेषु लग्नाः इति सर्वकारेण निगदितम्। शतशः जनाः विविधेषु आतुरालयेषु चिकित्समाणाः वर्तन्ते। 

  प्रधानमन्त्री नरेन्द्रमोदी दुरापन्ने अनुशोचं प्रकटितवान्। रक्षादौत्याय सर्वविधं साहाय्यं तेन वाग्दत्तम्। ६० अङ्गयुक्तः नाविकसंघः दुरन्तस्थानं प्राप्य रक्षाप्रवर्तनमारभत। २०० अङ्गयुक्तः स्थलसेनाभटाश्च रक्षाप्रवर्तने व्यापृताः सन्ति।  मुण्टक्कै, अट्टमला, चूरल्मला  प्रदेशेषु ह्यः अर्धरात्रौ द्विवारं भूविच्छेदः गिरिजलप्रवाहश्चाभवत्।