OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 7, 2024

 उत्तरभारते अतिवृष्टिः; मरणानि, विनाशः। 

दह्रादूण्> आस्सामः, उत्तरखण्डः , हिमाचलप्रदेशः इत्यादिषु उत्तरभारतराज्येषु अतिवृष्टिदुष्प्रभावेन अनेके जनाः मृताः। मार्गाः, सेतवश्च विनाशिताः। गमनागमनसुविधा स्थगिता। 

  असमराज्ये वृष्टिदुष्प्रभावेन ६ जनाः मृत्युमुपगताः। द्वौ सेतू जलप्रवाहे विनाशितौ। ब्रह्मपुत्रानदी आप्लुतोदका स्यन्दति। ६६,००० हेक्टरपरिमिता कृषिभूमिः जलौघे मज्जिता। २९६ दुरन्तसमाश्वासकेन्द्राणि उद्घाटितानि। 

  उत्तरखण्डे कठोरवृष्टिकारणात् पञ्च जनानां जीवहानिरजायत। एषु द्वौ हैदराबादतः बदरीनाथमन्दिरदर्शनाय प्रस्थितौ द्विचक्रयानयात्रिकौ इति सूच्यते। मार्गमध्ये शिलापातेनैव मरणम्। राज्ये गतपञ्चदिनैः अतिवृष्टिरनुवर्तते। ११५ वीथिषु यातायातस्थगनं सञ्जातम्। उत्तरभारते दिनद्वयमपि वृष्टिरवुवर्तिष्यते इति ऋतुविज्ञानीयविभागेन सूचितम्।