OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 5, 2024

 विश्वविजयिनः स्वदेशं प्रत्यागतवन्तः। 

राष्ट्रस्य महदुज्वलस्वीकरणम्। 

भारतसंघाय मुम्बय्यां प्रदत्तं स्वीकरणम्। 

नवदिल्ली> टि - २० क्रिकेट् विश्वकिरीटधारी भारतसंघः ह्यः प्रभाते राष्ट्रराजधानिं प्राप। १३ संवत्सरेभ्यः परं विश्वचषकेन सह  इन्दिरागान्धी अन्ताराष्ट्रविमाननिलये पादस्पर्शं कृतवान्  भारतनायकः रोहित शर्मा  संघेन सह सहस्राणाम् आराधकानां स्नेहोज्वलं स्वीकरणं स्वीकृतवान्। तदनन्तरं ते प्रधानमन्त्रिणः प्रेमानुमोदनानि स्वीकर्तुं लोककल्याणमार्गस्थं प्रधानमन्त्रिणः वासमन्दिरं प्राप्तवन्तः। दलाङ्गैः साकं परिशीलकः राहुल द्राविडः, बी सि सि ऐ अध्यक्षः रोजर् बिन्निः, कार्यदर्शी जय् षा इत्येते चासन्। 

मुम्बई> मुम्बय्यां आरबसमुद्रस्य तीरस्थे मरैन् ड्रैव् मार्गस्य पार्श्वयोः तथा वाङ्घटे क्रीडाङ्कणे च अन्यः नीलवर्णाङ्कितः  महाजनसमुद्रः उत्साहारववीचिभिस्सह प्रतीक्षन्ते स्म। न केवलं मार्गे समीपस्थेषु व्यापारमन्दिरेषु वासमन्दिराणां वरान्तासु वृक्षशिखरेषु च प्रियताराणाम् एकमात्रदर्शनाय जनाः वयःभेदं विना सज्जाः तिष्ठन्ति स्म। 

  सायंसन्धायाः पूर्णतायां सविशेषरीत्या सज्जीकृतस्य बस् यानस्य अन्तः सर्वेभ्यः दर्शनसौविध्यं प्रदत्तवन्तः भारतसंघाङ्गाः क्रीडाङ्कणं प्रविश्य प्रदक्षिणं कृतवन्तः। जनाः आनन्दारवान् उद्घोषितवन्तः।