OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 17, 2024

 चिट्टूर् नद्यां लग्नाः चत्वारः अग्निरक्षासेनया रक्षिताः। 

चिट्टूर् नद्यां लग्नान् अग्निरक्षासेना रक्षां करोति। 

पालक्काट्> केरले अतिवृष्ट्या नद्यां जलोपप्लवे जाते नदीमध्यस्थे शिलातले लग्नाः चत्वारः एकपरिवारीयाः अग्निरक्षासेनायाः तीव्रयत्नेन रक्षिताः। मैसुरु पुरीयः लक्ष्मणः [७१],तस्य पत्नी देवी [६५], पुत्रः सुरेशः [३२], पौत्रः विष्णुः [१९] इत्येते मङ्गलवासरे मध्याह्ने चिट्टूर् नद्यां लग्नाः अभवन्। स्नानार्थं नदीं प्राप्ताः ते मन्दप्रवाहस्थाने स्नानं कुर्वत्सु  अप्रतीक्षितः जलोपप्लवः जातः। झटिति तीरं प्रतिनिवर्तयितुमुत्साहवत्स्वपि प्रवाहे शक्ते जाते नदीमध्यस्थं शिलातलम् अभयं प्रापुः। 

  श्रुतवृत्तान्ताः आरक्षकाः स्थानमेत्य जागरणनिर्देशं दत्वा अग्निरक्षासेनामाहूतवन्तः। एतदाभ्यन्तरे मन्त्री के कृष्णन् कुट्टिवर्यः अपि तत्रागत्य रक्षाप्रवर्तने नेतृत्वमावहत्। सार्धैकहोरायाः कठिनप्रयन्तस्य अन्ते सर्वे तीरं प्राप्ताः।