OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 31, 2024

 मुण्टक्कै = मरणभूमिः। 

अश्रुपूर्णं केरलम् ; भीतिदः वयनाट् दुरन्तः। 

  मुण्टक्कै> दिनद्वयात्पूर्वं केरलस्य इतरप्रदेश इव साधारणः प्रदेश आसीत् वयनाट् जनपदस्थः मुण्टक्कै नामकः गिरिसानुहरितमधुरप्रदेशः। सोमवासरस्य अर्धरात्रिः अस्य  भागधेयं प्रकृतिः भूविच्छेदस्य रूपेण परिवर्तितमकरोत्। उपत्रिसहस्रं परिवारैः अधिवसितं मुण्टक्कै, चूरल् मला, अट्टमला इति प्रदेशत्रयं प्रकृतेः संहारताण्डवेन नामावशेषम् अभवत्।  मुण्टक्कै, चूरल् मला प्रदेशद्वयमपि अक्षरार्थे मरणभूमिरभवत्। 

   मृत्युसंख्या उपद्विशतमुपयाति। १७७ मृतदेहाः अधिगताः। शताधिके प्रदेशवासिनः अदृष्टाः वर्तन्ते। कतिजनाः दुरन्तलग्नाः बभूवुरिति निर्णेतुम् इदानीमशक्यं भवति यतः वयनाटस्य प्रमुखविनोदकेन्द्रत्वेन वर्तमाने अस्मिन् प्रदेशे बहवः विनोदयात्रिकाः इतरराज्यवासिनश्च उपस्थातुं सम्भावना विद्यते। 


    केवलम् अद्यैव मुण्टक्कै दुरन्तप्रदेशं प्राप्तुं  रक्षाप्रवर्तकैः अशक्यत। यतः तत्र प्राप्तुम् यः एकैव सेतुरासीत्,स तु भूविच्छेदे परिपूर्णतया विशीर्णः अभवत्। अद्य तत्रत्यानि दृश्यानि भीतिदान्यासन्। शतशः गृहाणि, विद्यालयः, आराधनालयाः अन्यानि भवनानि च मृण्मयमभवत्। पञ्चत्वं गतानि शरीराणि तत्र  तत्र दृष्टानि। विशीर्णानां भवनानामन्तः मृतप्रायानां मनुष्याणां परिलालितजीविनां च मृदुस्वराः! किन्तु रक्षिसंघः निस्सहायतामवाप। कठिनप्रयत्नेन ४५० अधिके जनाः तैः रक्षातीरं प्राप्ताः। 

  केन्द्र-राज्यसर्वकारयोः युगपत् एकोपनं  रक्षाप्रवर्तनाय सहायकं वर्तते।