OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 29, 2024

 भगवद्गीतावाक्यं प्रचोदकमिति मनु भाकरः। 

मनु भाकरः कांस्यपतकेन सह।

पारीस्> "टोक्यो मध्ये संजातां निराशाम् अतिक्रामितुं कतिपयकालम् आवश्यकमभवत्। तस्मिन् काले भगवद्गीता आसीत् ममाश्रयः। तत्रस्थः 'कर्मण्येवाधिकारस्ते मा फलेषु कदाचन' इत्यादिश्लोकः मम प्रचोदकः आश्वासश्चासीत्। तस्मिन् विश्वास एव मम अस्योपलब्धेः निदानम्।" पारीस् ओलिम्पिक्से कांस्यपतकलब्धेः परं मनु भाकरस्य वचांस्यासन् एतानि। 

  २०२० तमस्य टोकियो ओलिम्पिक्स् मध्ये लक्ष्यभेदकस्य २५ मीटर विभागस्य अन्तिमस्पर्धायां अग्रवर्तिन्यां सत्यां भुषुण्डिदोषे जाते दुःखेन निराशया च प्रतिनिवर्तवती आसीत्। ततःपरं फलनिरपेक्षेण तीव्रोत्साहेन एव कर्म कृतवती। अत एव एषः कांस्यलब्धिः मनोः मधुरप्रतीकारः भवति। लक्ष्यभेदकस्पर्धायां २५ मी, १० मी स्पर्धाः अपि मनु भाकराय अवशिष्यन्ते।