OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 9, 2024

 जम्मुसमीपे पुनः भीकराक्रमणम्। 

पञ्च सैनिकानां वीरमृत्युः। 

कठुवा> जम्मुकाश्मीरस्थे कठुवाजनपदे सोमवासरे कृते भीकराक्रमणे पञ्च सैनिकाः वीरमृत्युं प्राप्तवन्तः।पञ्च व्रणिताश्च। 

  ह्यः मध्याह्नानन्तरं सार्धत्रिवादने कठुवनगरात् १५० कि मी दूरे वर्तमाने वनप्रान्ते बदनोटा ग्रामे परिक्रमणं क्रियमाणं सैनिकव्यूहं प्रति आसीत् आक्रमणम्। सुरक्षासेनया प्रत्याक्रमणं कृतमपि भीकराः वनान्तर्भागे रक्षां प्राप्तवन्तः। उग्रशक्तियुक्तैः स्फोटकायुधैः अतिक्रामिताः भीकरा एव  आक्रमणं कृतवन्त इति सैनिकाधिकारिभिः निगदितम्।