एस् ऐ आर् - १३. ३७ कोटि मतदानिनः अपसृताः।
आहत्य मतदानिसंख्या ८७ कोटि भवेत्।
निष्कासिताः अधिकतया उत्तरप्रदेशे।
नवदिल्ली> समग्रमतदान्यावलीपरिष्करणस्य [SIR] तृतीयचरणे समाप्तिं प्राप्तवति सति आराष्ट्रम् आहत्य १३. ३७ कोटि मतदानिनः आवलीतः अपसृताः इति गण्यते। २०२४ लोकसभानिर्वाचने आहत्य मतदानिनः ९९ कोटि आसीत्। परिष्करणप्रक्रियायाः तृतीयचरणे समाप्यमाने मतदानिनां संख्या ८७ कोटि भवेदिति सूच्यते।
अत्यधिके मतदानिनः उत्तरप्रदेशादेव अपसृताः - २.८ कोटि। महाराष्ट्रात् २.१ कोटि, कर्णाटकात् १ कोटि, पश्चिमवंगात् ९० लक्षं च मतदानिनः नूतनावलीतः निष्कासिताः।
