OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 10, 2026

 एष्यन् गयिंस्

भारतीयसंघानां प्रस्थानम् आरब्धम्। 

नवदिल्ली> जापानराष्ट्रे २० तमायै एष्यन् गयिंस् क्रीडायै नवदिनेषु अवशिष्टेषु भागभाजः विभिन्नविभागाः भारतीयसंघाः जापानं प्रति प्रस्थानं समारभन्त। भारतस्य महिला होक्कीसंघः कुजवासरे, पुरुषसंघः बुधवासरे च प्रस्थितौ। कयाकिंग् कानोयिंग् संघाः जापानं सम्प्राप्य परिशीलनमारब्धवन्तः।

  तरणसंघः गुरुवासरे, कायिकक्रीडासंघः शनिवासरे च प्रस्थास्यते।