भारत-ब्रसीलयोः सौहृदपादकन्दुकस्पर्धा श्वः।
ब्रसीलदलः कोल्कोत्तां प्राप्तः।
कोल्कोत्ता> विश्वपादकन्दुकमण्डले चरित्रपुरुषाणां नूतनपरम्परा भारतं सम्प्राप्ता। 'सांबातालं, पीतसेना' इत्यादिविशेषणैः आराध्यमानः ब्रसीलीयपादकन्दुकक्रीडासंघः गुरुवासरे रात्रौ कोल्कोत्तां सम्प्राप्तः। प्रथमतया एव क्रीडार्थं ब्रसीलस्य भारतागमनम्।
शनिवासरे रात्रौ सार्धसप्तवादने 'साल्ट् लेक्' क्रीडाङ्कणे अस्ति भारत-ब्रसीलयोः सौहृदस्पर्धा। ब्रसीलगणे विनीष्यसः, ब्रूणो गिमारस्, रयान्, डानिलो, एन्ड्रिक्, एस्तावो, पेड्रो इत्यादयः क्रीडकश्रेष्ठाः सन्ति।
भारतगणः अपि कोल्कोत्तायां तीव्रपरिशीलने वर्तते। खालिद् जमीलः एव परिशीलकः। आस्त्रेलियावंशजः रयान् विल्यंसः, आशिक करुणियः, सहल् अब्दु समदः इत्यादयः भारताय क्रीडिष्यन्ति। लक्ष्यरक्षकः गुरु प्रीत सिंहसन्धुः भवेत् भारतस्य नायकः।