सहवैमानिकः मुख्यवैमानिकम् आक्रम्य विमानं सन्निपात्य भञ्जितुमुद्यमः।
भारतीयवैमानिकस्य विपदिधैर्येण सर्वे यात्रिकाः सुरक्षिताः।
विमानं सौद्यां झटिति अवतारितम्। 
अनुविद्धः मुख्यवैमानिकः स्मित मच्चारः।
टेल् अवीव्> दुबाय् तः इस्रयेलं प्रति डयमानस्य 'फ्लै दुबाय्' विमानस्य वैमानिकप्रकोष्ठे [Cockpit] वैमानिकसंघट्टनम्। ओमानीयः सहवैमानिकः भारतीयं मुख्यवैमानिकं - नाम्ना स्मित् मच्चार् - निशितेनायुधेन विव्याध। तीव्रेण क्षतः मुख्यवैमानिकः विपदिधैर्यमवलम्ब्य प्रकोष्ठद्वारमुद्घाटितवान्। भयचकितेषु यात्रिकेषु केचन धैर्मवलम्ब्य विमानचालकप्रकोष्ठं प्रविश्य आक्रमणकारिणं सहवैमानिकम् अभिभाव्य बबन्धुः।
ओमानीयस्य सहवैमानिकस्य नामादिकं न लब्धम्। तस्य भीकरसम्बन्धमारोप्य इस्रयेलस्य प्रधानमन्त्रिणः बञ्चमिन् नेतन्याहोः प्रस्तावः आगतः। लोकनेतारः भारतीयवैमानिकं मच्चार् वर्यं अभिनन्दनैः प्रशंसावचनैः अनुमोदितवन्तः।