अरबसमुद्रे ३००० कोटि रूप्यकाणां मादकद्रव्यनिग्रहणम्।
५ पाकिस्थानीयाः निगृहीताः।
निगृहीताः पाक् नागरिकाः मादकद्रव्यैः सह।
कोच्ची> लक्षद्वीपानां समीपे आरबसमुद्रे कस्माच्चित् इरानीयसमुद्रयानात् त्रिसहस्राधिककोटि रूप्यकाणि मूल्योपेतानि ५२६ किलो मितानि मादकद्रव्यानि निगहीतानि। घटनायां पञ्च पाकिस्थाननागरिकाः तटरक्षासेनया गुजरातस्य भीकरविरुद्धसेनया च निगृहीताः। २५ तमे दिनाङ्के आपन्ना इयं घटना गतदिने एव अधिकृतैः बहिर्नीता।
'हेरोयिन्, मेथांफिटामिन्' इति मादकद्रव्यमस्ति निगृहीतम्। मुम्बय्यां नीतवन्तः अपराधिनः केन्द्र गुप्तान्वेषणसंस्थायाः परिपृच्धाधीनाः वर्तन्ते।