प्रसिद्धः चलच्चित्राभिनेता नाना पाटेकरः दिवङ्गतः।
गोवा>प्रसिद्धः हिन्दी-मराठी-चलच्चित्राभिनेता नाना पाटेकरः (७५) दिवङ्गतः। हृदयाघातेन पीडितः सः गोवायाः निजीयचिकित्सालये अन्तिमश्वासं त्यक्तवान्। ‘क्रान्तिवीर्’ इति चलनचित्रे उत्कृष्टाभिनयस्य कृते तेन श्रेष्ठाभिनेतुः राष्ट्रस्तरीययचलच्चित्रपुरस्कारः प्राप्तः। कलाक्षेत्रे तस्य उत्कृष्टयोगदानं परिगणय्य २०१३ तमे वर्षे पद्मश्री पुरस्कारेण सः समादृतः। तस्य सविशेषा अभिनयशैली संभाषणानि च भारतीय चलनचित्रेषु अपूर्वा भवति।
