रष्या-युक्रेन् युद्धविरामाय भारतस्य दौत्यम्।
शान्तिनिर्देशान् प्रति युक्रेनस्य अनुकूलनम्। 
नरेन्द्र मोदी युक्रेनस्य राष्ट्रपतिः वोलोदिमिर् सेलन्स्की च।
कीव्> सार्धवर्षातीतस्य रष्या-युक्रेन् युद्धस्य सम्पूर्णविरामाय समग्रनिर्देशान् प्रस्तूय भारतस्य अन्ताराष्ट्रियनयतन्त्रोद्यमः। युद्धविरामाय भारतेन समर्पिताः निर्देशाः, अमेरिका तुर्की ईजिप्तः इत्येतेषां निर्देशेभ्यः समग्राः विशालहितयुक्ताः चेति युक्रेनस्य विदेशकार्यमन्त्री आन्द्री सिबिहा वर्येण प्रस्तुतम्।
ऊर्जाक्षेत्रेषु सम्पूर्णः आक्रमणविरामः, कृष्णसमुद्रे युद्धविरामः - एतयोः युगपत् प्रवृत्तिपथम् आनयनम् इत्येव भारतनिर्देशानां सारः इति सूच्यते।
युद्धविरामदौत्ये व्यवहाराय भारतस्य प्रक्रमान् रष्यायाः राष्ट्रपतिः व्लादिमीर पुतिनः प्रशशंस। शान्तिपुनःस्थापनाय नरेन्द्र मोदिनः हस्ते श्रेष्ठाः आशयाः वर्तन्ते इति पुतिनेन प्रोक्तम्।