सप्तदशसहस्रपादोन्नतौ तडिदाघातः
इन्डिगो-विमानस्य अग्रभागे क्षतिः, आपत्कालीनमवतरणम्
लख्नौ> पट्नातः लख्नौदेशं प्रति सप्तदशसहस्रपादोन्नते आकाशे उड्डीयमानस्य इन्डिंगो विमानस्य उपरि तडिदाघातः अभवत्। तडिदाघातानन्तरं विमानस्य आपत्कालीनावतरणं कृतम्। विमानस्य अग्रभागे क्षतिः अभवत्। विमाने विद्यमानैः षट् कर्मकरैः साकम् आहत्य ११० यात्रिकाः आसन्। सर्वे सुरक्षिताः इति अधिकारिभिः आवेदितम्। निर्धारितसमयात् अष्टनिमेषात् पूर्वमेव विमानं सुरक्षितरूपेण लख्नौ विमानपत्तने सम्प्राप्तम्। Photo: X/ TOILucknow
