एष्यन् गयिंस् ।
चीनस्य अग्रगामित्वम् अनुवर्तते।
जापानः, दक्षिणकोरिया च पृष्ठतः। भारतम् अष्टमस्थाने।
नगोया> २० तमे एष्यन् गयिंस् प्रतिद्वन्द्वे चीनराष्ट्रं क्पीडासु तस्य अप्रमादित्वम् अनुवर्तते। पदकसूचिकायां आहत्य २८८ पदकैः चीनः प्रथमस्थाने तिष्ठति। तेषु १५४ सुवर्णानि सन्ति। रजतानि ७१, कास्यानि ६९ च भवन्ति। द्वितीयस्थाने वर्तमानस्य जापानस्य पदकोपलब्धिः आहत्य २१७ अस्ति। ५९ सुवर्णानि, ७९ रजतानि,७९ कांस्यानि च। दक्षिणकोरिया ३० सुवर्णानि,३० रजतानि, ५३ कांस्यानीत्येवं क्रमे आहत्य ११३ पदकानि सम्पाद्य तृतीयस्थाने वर्तते। भारतं तु अष्टमस्थाने अस्ति। सुवर्णानि दश, रजतानि २३, कांस्यानि ३३। आहत्य ६६ पदकानि।
