मेसिवर्यस्य अन्तिमा पादकन्दुकस्पर्धा बुधवासरे प्रत्युषसि।
ब्यूणस् ऐरिस्> अर्जेन्टीना गणवेषं धृत्वा लयोणल् मेस्सेः अन्तिमा अन्ताराष्ट्रियपादकन्दुकस्पर्धा बुधवासरे प्रत्युषसि ४.३० वादने [भारतसमयः] 'एस्टाडियो मोण्युमेन्टल्' क्रीडाङ्कणे सम्पत्स्यते। विश्वश्रेणीकरणे ९३ तमस्थाने वर्तमानः बनिन् गण एव अर्जन्टीनायाः प्रतिद्वन्द्वी।
अतीतविश्वचषकात्परम् अन्ताराष्ट्रियस्पर्धाभ्यः विरतिं प्रख्यापितवते मेसिवर्याय अर्जन्टीना पादकन्दुकसमित्या एव अन्तिमाभिवादनस्पर्धा आयोज्यते। अर्जन्टीनया सह दशकद्वयाधिकसंवत्सराणि यावत् दीर्घितायाः पादकन्दुकयात्रायाः अद्य परिसमाप्तिर्भविष्यति।
