एष्यन् गयिंस् क्रीडयै वर्णोज्वलपरिसमाप्तिः।
आगामि गयिंस् खत्तरे। 
गयिंस् समाप्तिकार्यक्रमात्।
नगोया> जापाने 'एची-नगोया' नामकं नगरं केन्द्रीकृत्य अतीतानि पञ्चदशदिनानि यावत् आयोजिताः एष्यन् गयिंस् स्पर्धाः वर्णशबलैः कार्यक्रमैः परिसमाप्ताः। २०३० तमे वर्षे सम्पत्स्यमानस्य गयिंस् महोत्सवस्य आतिथेयराष्ट्रेण खत्तरेण गयिंस् दीपशिखा पताकया सह स्वीकृता।
नगोयायां 'मिसुहो पलामो' इति कायिकक्रीडाङ्कणे जापानस्य राजकुमारः फुमिहि तो, तस्य पत्नी किको इत्यादयानां सान्निध्ये एष्यायाः ओलिम्पिक्स् कौण्सिल् संस्थायाः अध्यक्षः षेक् जोवान् वर्यः समाप्तिघोषणं कृतवान्।