प्रकाशेन मस्तिष्कीयनाडीकोशिकानां नियन्त्रणम्; कार्ल-डीसेरोथ्, पीतर्-हेगेमन्, जोर्ज्-नागेल् इत्येतेभ्यः २०२६ वर्षे वैद्यशास्त्रे नोबेल्-पुरस्कारः
स्टाक्होम्> (Stockholm) — २०२६ तमस्य वर्षस्य वैद्यशास्त्राय (Medicine) नोबेल्-पुरस्कारः (Nobel Prize) त्रिभ्यः वैज्ञानिकेभ्यः उद्घोषितः। कार्ल्-डीसेरोथ् (Karl Deisseroth), पीतर्-हेगेमन् (Peter Hegemann), जोर्जज्-नागेल् (Georg Nagel) इत्येते वैज्ञानिकाः अस्य पुरस्कारस्य भागिनः अभवन्। एतेभ्यः प्रकाश-नियन्त्रित- आयस-प्रणालीनां (light-gated ion channels) अन्वेषणाय, प्रकाश-आनुवंशिकी-प्रविधेः (Optogenetics) विकासाय च संयुक्तरूपेण एषः पुरस्कारः समर्पितः। स्वीडन् (Sweden) देशस्य कैरोलिन्स्का-संस्थायाः (Karolinska Institute) नोबेल्-समित्या एषा विज्ञप्तिः कृता।
मस्तिष्कस्य प्रत्येकस्याः नाडीकोशिकायाः (neurons) कार्यप्रणालीं प्रकाशस्य साहाय्येन सूक्ष्मतया नियन्त्रयितुं अध्येतुं च सहायिकायाः प्रविधेः विकासः एव अस्य पुरस्कारस्य आधारः अस्ति। नाडीकोशिकाः कथं कार्यं कुर्वन्ति, तासां कार्यप्रणाली च स्मृत्या (memory), भावनया (emotion), व्यवहारेण (behaviour) च कथं सम्बद्धा इति अध्येतुम् ' ओप्टोजेनेटिक्स्' (Optogenetics) नामिका एषा प्रविधिः संशोधकानां कृते समर्थं साधनम् अभवत्।
अस्य नोबेल्-पुरस्कारस्य आधारभूतानि अनुसन्धानानि एककोशिकीय-शैवालेषु (single-celled algae) विद्यमानानां प्रकाश-संवेदी- पोष्यांशानां (light-sensitive proteins) अध्ययनेन आरब्धानि। पीतर्-हेगेमन् (Peter Hegemann), जोर्ज्-नागेल् (Georg Nagel) च 'चानल्-रोडोप्सिन्' (channelrhodopsin) नामकस्य पोष्यांशस्य विशेषांशान् अन्विष्टवन्तौ। प्रकाशस्य उपस्थितौ आयस-प्रणालिकारूपेण (ion channel) कार्यं कर्तुं समर्थः एषः पोष्यांश एव अनन्तरं प्रकाशेन नाडीकोशिकानां नियन्त्रणपद्धतेः आधारः अभवत्।
एतानि अन्वेषणानि कार्ल्-डीसेरोथ् (Karl Deisseroth) इत्यादयः संशोधकाः नाडीकोशिकानाम् अध्ययने प्रयुक्तवन्तः। एतेन प्रकाश-प्रतिक्रियाशीलान् पोष्यांशान् विशिष्टासु नाडीकोशिकासु सञ्चार्य, प्रकाशस्य प्रयोगेन तासां कार्यम् उत्तेजयितुं वा निरोद्धुं वा संशोधकाः समर्थाः अभवन्। 'ओप्टोजेनेटिक्स्' (Optogenetics) नाम्ना ज्ञायमानया अनया पद्धत्या अतीव सूक्ष्मतापूर्वकं नाडीकोशिकाः सक्रियाः निष्क्रियाः वा कर्तुं शक्यन्ते।
नाडीविज्ञानस्य (Neuroscience) अनुसन्धाने अस्याः प्रविधेः प्रभावातिशयः एव नोबेल्-समित्या विशेषतः उल्लिखिता। सम्प्रति विश्वस्य बहुषु प्रयोगशालासु मस्तिष्कस्य कार्यप्रणाल्याः अध्ययनाय एषा प्रविधिः उपयुज्यते। कार्ल्-डीसेरोथ् (Karl Deisseroth) अमेरिका (USA) देशस्य स्टैन्फोड्-विश्वविद्यालयस्य (Stanford University) संशोधकः अस्ति। पीतर्-हेगेमन् (Peter Hegemann) बर्लिन् (Berlin) नगरस्थस्य हम्बोल्ट्-विश्वविद्यालयस्य (Humboldt University) आचार्यः अस्ति। जोर्ज्-नागेल् (Georg Nagel) तु जर्मनी (Germany) देशस्य वुर्ज्बर्ग्-विश्वविद्यालयस्य (University of Würzburg) आचार्यः अस्ति। पुरस्काररूपेण एते त्रयोऽपि १२ 'मिल्यन्' (12 million) स्वीडिश्-क्रोनर् (Swedish kronor) धनराशिं समभागेन प्राप्स्यन्ति।
.webp)