युक्रेने रष्यायाः आक्रमणमनुवर्तते।
कीव्> युद्धविरामाय अन्ताराष्ट्रनयतन्त्रप्रक्रमेषु पुरोगच्छत्सु युक्रेनं प्रति रष्यायाः तीव्रमाक्रमणम्। जर्मन्याः चान्सलर् पदीयः फ्रेडरिक् मेर्सन् वर्यस्य युक्रेनसन्दर्शनमध्ये आसीत् गतदिनस्य आक्रमणम्। कीव् नगरस्थः मुख्यसेतुः आक्रमणे भग्नः।
सामान्यजनान् विरुध्य रष्यया क्रियमाणं युद्धं मेर्स् वर्येण अपलपितम्। इदानीं युक्रैनं विरुध्य क्रियमाणं युद्धम् अचिरात् यूरोपं प्रतिभवेदिति सः पूर्वसूचनामदात्। युक्रैनाय शताधिककोटि डोलर् मूल्यमितस्य सैनिकसाहाय्यं जर्मन्या उद्घोषितम्।