एष्यन् गयिंस्
क्रिकेट,होकी क्रीडाद्वये सुवर्णम्।
होकीस्पर्धायां सुवर्णं प्राप्तवतः भारतगणस्य आह्लादः।
नगोया> पुरुष क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वे पाकिस्थानं १९ धावनाङ्कैः पराजित्य भारतं सुवर्णपदकमलभत। अनुस्यूततया द्वितीयवारमेव एष्यन् गयिंस् मध्ये भारतस्य सुवर्ण प्राप्तिः।
होकिस्पर्धायां पञ्चमवारमपि सुवर्णं सम्प्राप्य भारतीयपुरुषाः २०२८ तमवर्षस्य ओलिम्पिक्स् स्पर्धायै योग्यतां सम्पादयामास। अन्तिमचक्रे मलेष्यां ५ - १ इति लक्ष्यक्रमेण पराजित्य एव सुवर्णप्राप्तिः। गतदिने महिलाविभागे अपि भारतं सुवर्णाभिषिक्तमासीत्। प्रथमतया एव पुरुष-महिलाविभागयोः होकिस्पर्धायां सुवर्णप्राप्तिः।