मुख्यमन्त्रिणां तथा उच्चन्यायालयस्य मुख्य-न्यायाधीशानां च संयुक्तोपवेशनं प्रधानमन्त्रिणा संबुध्यते।
नवदिल्ली> राष्ट्रस्य नीतिन्याय-व्यवस्थायाम् इदानीम् अभिमुखीक्रियमाणां समस्याम् अधिकृत्य परिचिन्तनाय आयोक्ष्यमाणं मेलनम् प्रधानमन्त्रिणा नरेन्द्रमोदिना संबुध्यते । उद्घाटनसमारोहे भविष्यति तस्य भाषणम्। नीतिः ललितया रीत्या सर्वेभ्यः लब्धुं किं किं कर्तव्यम् इति परिचिन्तनस्य मुख्यविषयः। न्यायालयप्रक्रमेषु प्रौद्योगिकविद्यायाः अपि योजनं कृतम् अस्ति। त्वरितवेगेन नीतिवितरणम् अनिवार्यमेव। विषयोऽयमपि उपवेशनस्य कार्यक्रमे चर्चासूचकत्वेन अस्ति।
.jpg)

.webp)