टि २० विश्वचषकः।
भारत-न्यूसिलान्टयोः अन्त्यस्पर्धा श्वः।
सञ्जु सांसणे जस्प्रीते च भारतस्य प्रतीक्षा।
अहम्मदाबादः> टि २० विश्वचषकस्य अन्त्यस्पर्धा रविवासरे अहम्मदाबादे नरेन्द्र मोदी क्रीडाङ्कणे सम्पत्स्यते। कन्दुकताडने प्रारम्भकक्रीडकः सञ्जु सांसणः, कन्दुकक्षेपणे जस्प्रीत बुम्रः च विजये भारतस्य प्रतीक्षा अस्ति।