OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 8, 2026

 इराने स्थलयुद्धस्य सम्भावना।

 मरणानि १३३२। 

टेहरानः> इराने यू एस् राष्ट्रेण स्थलाधिनिवेशं कर्तुमुद्यमते इति इरानस्य परमोच्च सुरक्षासमित्याः अध्यक्षः अलि लारि जानि अवदत्। यदि स्थलयुद्धं भविष्यति तर्हि यू एस् सैनिकाः हनिष्यन्ते वा कारागृहायन्ते वा इति तेन भीषा उक्ता च। इराने आहत्य मरणानि १३३२ अभवन्। 

  लबनने अपि इस्रयेलस्य बोम्बवर्षः अनुवर्तते। तत्र १२३ जनाः मृताः। इरानस्य ड्रोण् आक्रमणेन यू ए ई, खत्तर्, सौदी इत्यादिभ्यः राष्ट्रेभ्यः २०,००० यू एस् सैनिकाः पश्चिमेष्यां परित्यक्तवन्तः।