OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, March 5, 2026

 टि-२० विश्वचषकः।

 भारतम् अन्त्यचक्रे। 

भारतदलम्।

मुम्बई> वांखडे क्रीडाङ्कणं  पुनरपि प्रकम्पितम्। टि-२० विश्वचषकस्य द्वितीये पूर्वान्त्यप्रतिद्वन्द्वे इङ्गलाण्टदलं ७ धावनाङ्कैः पराजित्य भारतदलम् अन्त्यक्रीडां प्राविशत्। 

  प्रथमं कन्दुकताडनं कृतवत् भारतं इङ्लाण्टं विरुध्य २५३ धावनाङ्कान् सम्पादयामास। प्रारम्भकः केरलीयः सञ्जू सांसणः ४३ कन्दुकैः ८९ धावनाङ्कान् सम्पाद्य बृहत्प्राप्ताङ्कस्य शिलान्यासं कृतवान्। 

  प्राप्ताङ्कसूचना - भारतं २० क्षेपणचक्रेषु २५३/७। इङ्लाण्टः २० क्षेपणचक्रेषु २४६/७।

Latest news