केरलम्।
मुख्यनिर्वाचनायोगः ग्यानेष् कुमारः केरलं सम्प्राप्तवान्।
दिनत्रयात्मके सन्दर्शने राज्यस्य निर्वाचनसज्जीकरणस्य अवलोकनम्।
कोच्ची>राष्ट्रस्य मुख्यनिर्वाचनायोगः ग्यानेष् कुमारः त्रिदिवसीयौद्योगिकसन्दर्शनाय केरलं सम्प्राप्तवान्। केरलस्य विधानसभानिर्वाचनस्य पूर्वसिद्धतां साक्षादवलोकयितुमेव तस्य सन्दर्शनम्। तेन सह इतरौ निर्वाचनायोगौ डो एस् एस् सन्धुः च स्तः।
शुक्रवासरे जनपदीयनिर्वाचनाधिकारिणः, राजनैतिक नेतारः, एस् ऐ आर् प्रक्रमस्य अधिकारिणः इत्यादयैः सह चर्चां कृत्वा मतदानावलिम् एस् ऐ आर् प्रक्रिया इत्यादीनाम् अवलोकनं सन्देहनिवारणं च करिष्यति।
शनिवासरे अनन्तपुर्यां केरलस्य निर्वाचनाधिकारी, मुख्यकार्यदर्शी, राज्यस्य गृहसचिवः, आरक्षकसेनानिदेशकमुख्यः इतरे उच्चाधिकारिणः इत्येतैः सह विधानसभानिर्वाचनप्रक्रमाणाम् अवलोकनं करिष्यति।
