पश्चिमवंगः।
राज्यपालः सि वि आनन्दबोसः स्थानमत्यजत्।.webp)
सि वी आनन्दबोसः।
कोल्कोत्ता> पश्चिमवंगस्य राज्यपालः सि वि आनन्दबोसः त्यागपत्रं समर्पितवान्। स्थानत्यागस्य कारणं न स्पष्टीकृतम्। सार्धत्रयवर्षाणि राज्यपालपदे पर्याप्तं कालं यापितवान् इति सः वार्ताहरान् प्रति उक्तवान्। तमिलनाटुराज्यस्य राज्यपालः आर् एन् रविः वंगस्य राज्यपालपदं वक्ष्यति।