OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, March 7, 2026

 इरान् युद्धम्। 

गल्फप्रान्तस्य यू एस् सख्यराष्ट्रेषु अमर्षः। 

ड्रोण् आक्रमणं प्रतिरोद्धुं यू एस् साहाय्यं न लभते। 

केय्रो> यू एस्-इस्रेलयोः इरान् प्रति युद्धे सप्ताहे अतीते पेर्ष्यन् गल्फप्रान्ते वर्तमानेषु यू एसस्य सख्यराष्ट्रेषु यू एसं प्रति विप्रतिपत्तिः जायते। इरानम्  आक्रमिष्यति इति विषये यू एसेन पूर्वसूचना न दत्ता इति  सख्यराष्ट्राणां विप्रतिपत्तेः कारणमिति 'ए पी' इति वार्तासंस्थया वृत्तान्तीकृतम्। इरानस्य प्रत्याक्रमणं  प्रतिरोद्धुं सज्जीकरणाय कालः न लब्धः। अपि च इरानस्य मिसैल्,ड्रोण् आक्रमणानि प्रतिरोद्धुं यू एस् सेनायाः पर्याप्तं साहाय्यं न लब्धम्। 

  स्वकीयसेनां संरक्षितुमेव यू एस् - इस्रयेलसेनयोः प्रयासः, गल्फराष्ट्राणि स्वयं रक्षणीयानीति तयोः नयः इति द्वयोः गल्फराष्ट्रयोः सेनाधिकारिभिरुक्तम्।