इरानस्य युद्धमहानौकायै भारतम् आश्रयमदात्।
कोच्ची> पश्चिमेष्यायां संघर्षे कलुषिते इरानस्य युद्धमहानौका IRIS लावन् इत्यस्यै भारतम् कोच्ची नौसेनाकेन्द्रसमीपम् आश्रयमदात्। १८३ इरानीयनाविकाः कोच्ची नाविकशिबिरे सुरक्षिताः सन्ति। लावनाय आश्रयं दातव्यमिति भारतं प्रति इरानस्य अभ्यर्थना स्वीकृता इति भारतस्य नौसेनाधिकारिभिः सूचितम्।
विशाखपट्टणे सम्पन्ने नाविकाभ्यासे भागं कृत्वा प्रतिनिवर्तमानं IRIS देना इति इरानीयां युद्धमहानौकां अमेरेका मार्च् चतुर्थदिनाङ्के अन्तर्वाहिनीम् उपयुज्य निमज्जयति स्म। अन्ताराष्ट्रियपरिशीलनस्य अंशतया भारतमहासमुद्रमण्डले 'ऐ आर् ऐ एस् लावनः आसीत्। महानौकायां यान्त्रिकन्यूनता कारणेन कोच्ची मध्ये 'डोक्किङ्' आवश्यमिति निवेदनमभवत्। फेब्रुवरी अन्तिमदिने आसीत् इदं निवेदनम्। मार्च् प्रथमदिनाङ्के अनुज्ञा दत्ता।
.jpeg)