OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 6, 2026

 असमे 'सुखोय्'विमानं भग्नम्। 

गुवाहाटी> भारतीय व्योमसेनायाः सुखोय्'- ३० एम् के युद्धविमानं भग्नमिति सूच्यते। विमानेन सह 'रडार्' सम्बन्धः असमस्य कर्बी आङ्गलोङ् इत्यत्र विनष्टः अभवदिति वायुसेनाधिकृतैः निगदितम्। 

  गुरुवासरे रात्रौ सप्तवादने आसीदियं घटना। विमानचालकः अप्रत्यक्षः जातः। मार्गणाय सविशेषसंघः नियुक्तः। आसनद्वयोपेतं 'ट्विन् जेट्' [twin jet] परम्परान्तर्भूतं विमानमस्ति रूसनिर्मितमिदम्।