तमिलनाट्।
विद्यालयेषु राजनैतिक-धार्मिककार्यक्रमाः निरुद्धाः।
चेन्नई> निजीयविद्यालयपरिसरेषु राजनैतिक-धार्मिककार्यक्रमान् आयोजयितुं तमिलनाट् सर्वकारः निरोधः व्यवस्थापितः। एतदर्थं २०२३ तमवर्षस्य तमिलनाट् निजीयविद्यालयनियमे (Private schools law - Regulations) सर्वकारेण सारभूतः परिष्कारः कृतः। शैक्षिक मण्डलस्य आधारसुविधाः छात्राणां क्षेमाय अध्ययनकार्याय च उपयोक्तव्याः इत्येव नियमपरिष्करणस्य लक्ष्यम्।
विद्यालयस्थानि भवनानि, क्रीडाङ्कणानि, सभागाराः, इत्यादीनि राजनैतिक-जाति-धर्म-भाषा-समाजादिषु विद्वेषजनकेभ्यः प्रवर्तनेभ्यः नोपयोक्तव्यानि। प्रत्युत, रक्तदानशिबिराणि, सामाजिकसेवाकार्यक्रमाः, सांस्कृतिककार्यक्रमाः इत्यादिभ्यः उपयोक्तव्याः इति नूतनादेशे स्पष्टीकृतम्।