प्रधानमन्त्री नरेन्द्रमोदी स्वतन्त्रतादिने राष्ट्रगीतालापनाय भारतीयजनतां प्रति समभ्यर्थयत्।
प्रधानमन्त्री नरेन्द्रमोदी भारतस्य पञ्चसप्ततितमे तन्त्रतादिने राष्ट्रगीतालापनाय भारतीयजनतां प्रति समभ्यर्थयत्। बहुसंख्याकान् जनान् एकस्मिन्नेव सूत्रे निबद्ध्य राष्ट्रगीतालपनकार्यक्रमः सांस्कृतिक मन्त्रा लयेन आयोजितः अस्ति। अस्मिन् सदुद्यमे सर्वेषां जनानां भागभागित्वं तेन संप्रार्थितम्। 'मन की बात्' इति नाम्ना आकाशवाण्या कृत-प्रतिमासिक-प्रभाषणपरम्परायाम् एव तेन इत्थं प्रोक्तम्। तदर्थं सांस्कृतिकमन्त्रालयः परिश्रमं कुर्वन्नस्ति। नूतनकार्यक्रमे सर्वे जनाः भागं स्वीकरिष्यन्ति इति प्रतीक्षामहे इति तेन उक्तम्। राष्टगीतालपनानन्तरं ' राष्ट्रगान इन् नाम जालपुटमपि समारब्धमिति तेन उदीरितम्।OUR YouTube Channel 1. SampratiVartah |
marquee
Monday, July 26, 2021
अतिवृष्टिदुष्प्रभावः - महाराष्ट्रे मरणानि १३८।
मुम्बई> चतुर्दिनानि यावत् अनुवर्तमानया अतिवृष्ट्या ततः उपपन्नेन जलोपप्लवेन च महाराष्ट्रे १३८ जनाः मृत्युमुपगताः। ५३ जनाः अदृष्टाः अभवन्।
वृष्टिदुष्प्रभावेण राज्ये गतदिवसेषु पञ्चसु स्थानेषु मृत्स्खलनमभवत्। उपपञ्चाशत् भवनानि विनाशितानि। ततः ८९ मृतशरीराणि दुरन्तनिवारणसेनया अधिगतानि। रक्षाप्रवर्तनानि अनुवर्तन्ते।
Sunday, July 25, 2021
बालकानां कृते कोवाक्सिनं - परीक्षणफलं सेप्टम्बरमासे।
नवदिल्ली> बालकेभ्यः भारतबयोटेक् संस्थया सज्जीक्रियमाणस्य कोवाक्सिनं प्रत्यौषधस्य परीक्षणफलानि सेप्टम्बरमासे लप्स्यन्ते इति 'एयिंस्'संस्थायाः निदेशकः डो. रणदीपगुलेरियः न्यवेदयत्।
परीक्षणानि पुरोगम्यन्ते। अधिकारिभिः अङ्गीक्रियन्ते चेत् सोपानत्रयमालक्ष्य १२-१८, ६-१२, २-६ वयस्केभ्यः बालकेभ्यः वाक्सिनवितरणं सम्पत्स्यतीति सः अवदत्। भारतबयोटेकं विना १२-१८वयस्केभ्यः वाक्सिनवितरणाय 'सैडस् काडिला' नामिका संस्थापि अनुमतिं प्रतीक्षमाणा वर्तते इति डो. रणदीपेनोक्तम्।
वयोधिकेषु कोविड् प्रतिरोधक्षमतायुक्तांशः न्यूनः इति अध्ययनफलम्।
वृद्धानपेक्षया युवकेषु सप्तगुणितः प्रतिरोधक्षमतांशः अस्ति इति अध्ययनप्रतिवेदनेन स्फुटीक्रियते। तथापि सर्वेभ्यः रोगतीव्रतायां न्यूनत्वं दातुं प्रतिरोधौषधं शक्तं भवति इति प्रतिवेदने दृढीकृतं वर्तते।
Saturday, July 24, 2021
चीनराष्ट्रे जातः प्रलयः भारताय मार्गदर्शकः भवेत् इति वैज्ञानिकाः।
Friday, July 23, 2021
भारतसर्वकारेण एयर् इन्ड्यायाः सर्वकारस्वामित्वं त्यक्त्तुं प्रक्रमाः त्वरितवेगेन स्वीकृताः।
नवदिल्ली> एयर् इन्ट्यायाः सम्पूर्णतया निजीयवत्करणप्रक्रमाः अतिवेगेन प्रवृत्तिपथमानेष्यति इति सिविल् एवियेषन् सहमन्त्रिणा विजयकुमारसिंहेन विधानसभायाम् आवेदितम्। सेप्तंबर् मासस्य पञ्चदशतमदिनाम्यन्तरे अंशभागानां सघोषणविक्रयणं संपूर्णं करिष्यति इत्येव केन्द्रसर्वकारस्य विचारः। एयर् इन्ड्यायाः तथा एयर् एक्प्रसस्य च प्रतिशतं १०० अंशभागस्य तथा संयुक्तसंरभकस्य ए ऐ एस् ए टि एस् संस्थायाः च प्रतिशतं ४० अंशभागस्य च विक्रयं करिष्यति। अंशभागविक्रयं आकर्षकं कर्तुं विमान-संस्था-संबन्धिनां षोडश वस्तूनां संरक्षितधनेषु प्रतिशतं दश इति न्यूनीकृत्य समाश्वास रूपेण दास्यति इत्यपि मन्त्रिणा प्रोक्तम्। एतेषां सघोषविक्रयणं (auction) पूर्वं पराजिते सन्दर्भे एव एषः प्रक्रमः।
Thursday, July 22, 2021
डि आर् डि ओ संस्थया सम्पुष्टीकृतस्य स्वदेशीयस्य 'टाङ्क्' वेध अग्निसायकस्य प्रयोगपरीक्षणं विजयप्रदम् अभवत्।
नवदिल्ली> भारतीयप्रतिरोधमन्त्रालयस्य स्वाधीने वर्तमानस्य रक्षा अनुसन्धानम् एवं विकास सङ्गठनस्य (डि आर् डि ओ) स्वदेशीयरूपेण सम्पुष्टीकृतस्य 'टाङ्क्' वेध -मार्गदर्शकाग्निसायकस्य ( ए टि जि एम् ) प्रयोगपरीक्षणं विजयप्रदम् अभवत्। एतत् भारतीयसैन्यस्य आत्मविश्वासं संवर्धयितुं सहायकमभवत् इति डि आर् डि ओ संस्थया आवेदितम्। स्वयं लक्ष्यप्रापण-प्रौद्योगिकविद्या, तथा मितभारत्वम् इत्यादि विशेषतायुक्तम् अग्निसायकमेव विक्षिप्तम् इति डि आर् डि ओ संस्थाम् उद्धृत्य ए एन् ऐ वार्तासंघेन आवेदितम्। टाङ्क्'वेध अग्निसायकम् अयथार्थ टाङ्क् मध्ये सूक्ष्मतया पातयित्वा तत् विनाशयत् इति डि आर् डि ओ संस्थया प्रोक्तम्।
'टोक्यो ओलिम्पिक्स्' आरब्धम् ; उद्घाटनकार्यक्रमः अद्य।
टोक्यो> कोविड्कारणात् गतसंवत्सरे परिवर्तितः ३२ तमः ओलिम्क्स् कायिकक्रीडामहामहः ह्यः जापानदेशे आरब्धः। जापानं विना आस्ट्रेलिया अपि आतिथेयत्वमावहति। प्रेक्षकाणां प्रवेशः नास्ति। उद्घाटनकार्यक्रमे चितानां सहस्रं विशिष्टजनानां प्रवेशः विहितः।
टोक्यो ओलिम्पिक्स् महोत्सवस्य प्रथमस्पर्था जापान-आस्ट्रेलिययोः मिथः संवृत्ता मृदुकन्दुकक्रीडा आसीत्। ८ - १ लक्ष्यक्रमेण जापानदेशः विजयं प्राप्तवान्।
Wednesday, July 21, 2021
क्रीडाक्षेत्रमिव बृहदाकारवान् छिन्नग्रहः जूलाय् मासे २४ तमे दिनाङ्के भूसमीपेन गमिष्यति इति नासा संस्था।
नवदिल्ली> २००८ जि ओ २० नाम छिन्नग्रहः जूलाय् मासस्य चतुर्विशतितमे दिनाङ्के भूसमीपेन गमिष्यति इति अमेरिक्कादेशस्य नासा संस्थया आवेदितम्। एतस्य छिन्नग्रहस्य एकस्य क्रीडाक्षेत्रस्य वा अथवा ताज्महलस्य त्रिगुणीकृतमितः वा तुल्यः बृहदाकारः भवति। होरायां १८००० किलोमीट्टर् वेगेन एषः भूसमीपमागच्छति इति नासा संस्थया आवेदितम्। अप्पोलो क्लास् विभागे अन्तर्गतं भवति छिन्नग्रहोऽयम्। अस्य सञ्चारपथमधिकृत्य आशङ्कायाः आवश्यकता नास्ति इति नासा संस्थया आवेदितम्। भूमेः अतिनिकटम् आगमिष्यति तथापि ०.०४ आस्ट्रोणमिक् एककं (३,७१८.२३२ मैल्) दूरे एव छिन्नग्रहः भविष्यति। भूमेः २,३८,६०६ मैल् परिमिते दूरे एव चन्द्रस्य स्थानम्।
आमसोण् अध्यक्षःजेफ् बेसोस् अपि बाह्याकाशपर्यटने भागं भजति।
वाषिङ्टण्> बाह्याकाशपर्यटनम् आलक्ष्य यात्रा न समाप्यते। शतकोटीश्वरः ब्रान्सण् महोदयः बाह्याकाशं गत्वा प्रत्यागमनानन्तरं आमसोण् अध्यक्षः जेफ् बेसोस् अपि बाह्याकाशपर्यटने भागं भजति। स्वस्य ब्लू ओरिजिन् नाम संघस्य आकाशबाणे सः अद्य बाह्याकाशपर्यटनं करिष्यति। चन्द्रे मनुष्यस्य प्रथमपदक्षेपस्य ५२ तमे वार्षिके एव जेफ् बेसोसः संघः च बाह्याकाशपर्यटनं करोति इति विशेषता च यात्रायाः अस्ति।१९६९ तमे वर्षे जूलाय् मासस्य विंशतितमदिने एव मानवः प्रथमतया
चन्द्रे पदक्षेपः कृतः। बाह्याकाश-पर्यटनसाध्यताः संवर्धनीयाः इत्येतदेव यात्रायाः लक्ष्यः। यूरि गगारिनः एव प्रथमतया बाह्याकाशं प्राप्तवान्। इदानीन्तनानि पर्यटनानि केवलं प्रतियोगितायै न। किन्तु भाविनि परम्परायाः बाह्याकाशयात्रां सुकरं कर्तुमेव इति जेफ् बेसोसेन प्रोक्तम्।
कोविड् न्यूनीभूतम् - तमिलनाड् सामान्यस्थितिं प्राप्नोति।
चेन्नै> तमिल्नाट् राज्ये कोविड्रोगव्यापनं न्यूनीभूतमित्यतः राज्यस्य जनजीवनव्यवहारादिव्यवस्थाः पूर्वस्थितिं प्राप्नुवन्ति। पिधानानि लाघवं प्राप्तानि, रेल् यानानि लोकयानानि च समेत्य यात्रासुविधाः सुकराः भूताः च। किन्तु केरलान् प्रति यात्रासेवाः नारब्धाः।
विवाहादिषु आघोषेषु ५० पर्यन्तं, मरणकार्यक्रमेषु २० पर्यन्तं च जनानां भागभागित्वम् अनुमोदितम्। परिमितसंख्याकान् जनानुपयुज्य चलच्चित्र धारावाहिक चित्रीकरणानि प्रचालयितुं शक्यन्ते।
Tuesday, July 20, 2021
उत्तराखण्डे मेघविस्फोटे त्रयः नागरिकाः मृताः। चत्वारः जनाः अप्रत्यक्षाः अभवन्।
दहरादूण्> उत्तराखण्डे मेघविस्फोटेन जातेन अतिवर्षेण जलोपप्लवेन च त्रयः नागरिकाः मृताः। चत्वारः जनाः अप्रत्यक्षाः अभवन्। उत्तरकाशीजिल्लायामेव दुरन्तः जातः। अतिवर्षेण माण्डो ग्रामे बहूनि भवनानि जले निमग्नानि। अप्रत्येक्षु द्वौ स्त्रियौ, एकः पुरुषः, एकः शिशुः च अन्तर्भवन्ति इति राज्य-आपदा-प्रतिक्रिया-सेनायाः (State Disaster Response Force) निरीक्षकेन जगदम्बा प्रसादेन प्रोक्तम्। अपघातप्रदेशे रक्षाप्रवर्तनानि अनुवर्तन्ते। उत्तरखण्डे जूलाय् २१ तमदिनपर्यन्तं अतिवृष्टिः भविष्यति इति पर्यावरणनिरीक्षककेन्द्रेण पूर्वसूचना दत्ता। पश्चिमतीरे जूलाय् २३ तमपर्यन्तं अतिवृष्टिः भविष्यति। गतसप्ताहे उत्तरकाश्यां अतिवृष्टिकारणेन जातस्य मृत्स्खलनेन राजमार्गे गमनागमनं रुद्धमासीत्।
Monday, July 19, 2021
पर्यावरणे व्यत्ययः - उत्तरध्रुवे असाधारणघटनारूपेण वातः सौदामिनी च।
अफ्गाने पाकिस्थानीयतालिबानेन भारतीयचिह्नानां विनाशनम् आलक्ष्यते।
नवदिल्ली> अफ्गानिस्थाने भारतनिर्मितवस्तूनां नाशं लक्ष्यीकर्तुं तालिबाने सम्मिलितान् पाकिस्थानस्य योद्धृन् प्रति निर्देशः अदात्। पाकिस्थानस्य गुप्तचरसंघटनेन ऐ एस् ऐ ( inter services intelligence)दलेन निर्देशो दत्तः इत्यस्ति आवेदनम्। अफ्गानिस्थानदेशस्थस्य भारतीयचिह्नानां नाशनमेव लक्ष्यम् इति वार्ताप्रतिनिधिसंघेन आवेदितम्। गतद्विदशकाभ्यन्तरे भारतीयसर्वकारेण अफ्गानिस्थानस्य पुनर्निमाणाय त्रि अर्बुदं (बिल्यन् ) डोलर् धनं व्ययीकृतम् आसीत्। डेलारामस्थे सरञ्च् सल्म सेतोः च मिथः २१८ किलोमीट्टर् यानमार्गस्य कृते भारतेन निक्षेपः कृतः। २०१५ तमे वर्षे उद्घाटितं विधानसभागृहं अफ्गानजनतायाः कृते भारतस्य योगदानस्य अमूल्यप्रतीकं भवति।
Sunday, July 18, 2021
शबरिगिरिमन्दिरे प्रतिदिनं १०००० भक्तेभ्यः भगवद्दर्शनाय अनुज्ञा।
पत्तनंतिट्टा/केरलम्> कर्कटक-मासपूजावेलायां शबरिगिरि-मन्दिरे प्रतिदिनं १०,००० भक्तेभ्यः प्रवेशाय अनुमतिः। मन्दिरद्वारोद्घाटनवेलायां जूलाय् २१ दिनपर्यन्तं प्रनिदिनं १०,००० भक्तेभ्यः भगवद्दर्शनाय अनुमतिः प्रदत्ता। Vertual queue booking द्वारा एव प्रवेशनम्। दर्शनाय आगताः भक्ताः ४८ होराभ्यन्तरे गृहीतं कोविड् आर् टि पि सि आर् रोगनिर्णयस्य अभावात्मक प्रमाणपत्रम् अथवा वाक्सिनस्य पूर्णमात्रास्वीकृतप्रमाणपत्रं वा नेतव्यमस्ति।
मन्त्रणसभायाः वर्षाकालसम्मेलनं श्वः आरभ्यते।
नवदिल्ली> भारतस्य उभयोः मन्त्रणसभयोः -लोकसभाराज्यसभयोः वर्षाकालसम्मेलनं श्वः आरभ्यते। कोविडनुशीलनानि परिपाल्य आयोजिते सम्मेलने वार्तामाध्यमानां कृते विहितं नियन्त्रणमनुवर्तिष्यते। सन्दर्शकेभ्यः निरोधः अस्ति।
आगस्टमासस्य १३ तमदिनाङ्कपर्यन्तम् अनुवर्तमाने सम्मेलने प्राक्तनानि नूतनानि च समेत्य २७ विधेयकानि उत्तीर्णं गम्यमानानि सन्ति।
'विकास' यन्त्रपरीक्षा विजयं प्राप्ता। ऐ एस् आर् ओ, इलोण् मस्केन अभिनन्दितम्।
नवदिल्ली> भारतीय बहिराकाश-अनुसन्धान-सङ्घटनायै इलोण् मस्कः अभिनन्दनं दत्तवान्। मानवं बाह्याकाशं नेतुम् अयोक्ष्यमानायां गगनयान परियोजनायै निर्मितं विकासयन्त्रस्य तृतीयपरीक्षा विजयपथं प्राप्तम् इति कारणेन भवति इलोण् मस्कस्य अभिनन्दनम्। अमेरिक्कायाः निजीयबाह्याकाश अनुसन्धानसंस्था इति प्रथितायाः स्पेस् एक्स् इत्यस्याः तथा याननिर्माण संस्थायाः टस्ले इत्यस्याः च अध्यक्षः भवति मस्कः। ट्विटर् माध्यमेन आसीत् तस्य अभिनन्दनम्। २०२१ डिसम्बर् मासे विक्षेपणयानस्य मनुष्यरहितपरीक्षा निर्वोढुम् भारतीय बहिराकाश-अनुसन्धान-सङ्घटनेन (ऐ एस् आर् ओ) निश्चिता।
Saturday, July 17, 2021
कोविषील्ड् नाम प्रतिरोधौषधस्य अङ्गीकाराय प्रर्थनापत्रं न लब्धम् इति यूरोपीय -औषधप्रतिनिधिसंघेन आवेदितम्।
नवदिल्ली> कोविषील्ड् प्रतिरोधौषधस्य यूरोपीय संयुक्तराष्ट्रस्य (European union) अङ्गीकाराय सीरम् इन्स्टिट्यूट् ओफ् इन्ट्या संस्थायाः प्रार्थनापत्रं इतःपर्यन्तं न लब्धम् इति यूरोपीय - ओषधप्रतिनिधिसंघेन वार्तामेलने (EMI ) आवेदितम्। यूरोपीय संयुक्तराष्ट्रस्य अङ्गीकाराय कोविषील्ड् उत्पादकैः यूरोपीय - औषधप्रतिनिधिसंघाय औद्योगिकरूपेण प्रार्थनापत्रं दातव्यमस्ति।। यूरोपीय अङ्गराष्ट्रेषु यात्रां कर्तुं फैसर्, मोडेण, अस्ट्रा सेनेक्का, जोण्सण् आन्ट् जोण्सण् इत्येते वाक्सिनः एव यूरोपीय - औषधप्रतिनिधिसंघेन अङ्गीकृताः।
मोस्को> रष्यायाः यात्राविमानम् उपरि उड्डीयमानानन्तरम् अप्रत्यक्षमभवत्। सैबीरियायाः प्रान्तप्रदेशे टोम्स्किल् देशे एव विमानम् अप्रत्यक्षमभवत्। अष्टाविंशति जनेभ्यः कृते यात्रासौकर्ययुक्ते विमाने वैमानिकं आहत्य त्रयोदश जनाः आसन् इत्येव सूचना। अप्रत्यक्षं विमानं विचेतुं परिश्रमः आरब्धः। विमाने सप्तदश जनाः आसन् इत्येव प्रादेशिकमाध्यमैः प्रथमम् आवेदितम्। दशदिनेभ्यः पूर्वं रष्यायां अष्टाविंशतिजनैः सहितं यात्राम् आरब्धं विमानं समुद्रे पतित्वा भग्नम् आसीत्। भूमौ अवरोहणात् दशकिलोमीट्टर् दूरे एव अन्टोनोव् ए एन् -२६ नाम विमानेन सह आशयविनिमयः विनष्टः अभवत्। अनन्तरं विमानं भग्नमभवत् इति विदितमभवत्।
अन्ताराष्ट्रिय संस्कृतदिनाचरणम् | संस्कृताभियानम् २०२१।
छात्राणां विभिन्नप्रस्तुतयः
Download Notification Registration
Notification No: INSD17/07/2021
अन्ताराष्ट्रिय संस्कृत-दिन-महोत्सवानुबन्धितया सम्प्रतिवार्तया संचाल्यमानं "संस्कृताभियानं २०२१" इति नाम्ना एकम् अन्तर्जालप्रसारणम् (www.samprativartah.in मध्ये web casting) आयोक्ष्यते। तस्मिन् विद्यालयछात्रान् संस्कृताभिमुखान् कर्तुं छात्राणां विभिन्नप्रस्तुतयः श्रव्य-दृश्य-सुभगाः कार्यक्रमाः आयोक्ष्यन्ते।तदर्थं छात्रैः वा विद्यालयैः वा तेषां वीडियोखण्ड: Email अथवा टेेेेलग्राम् सुविधा द्वारा प्रेषणीयः।छात्राणां पञ्जीकरणं विद्यालयेन करणीयम्। पञ्जीकरण-संख्या शिक्षकस्य वाट्साप् मध्ये लप्स्यते। प्रसारणाय कार्यक्रमः स्वीक्रियते चेत् ऑण्लैन् प्रमाणपत्रम् दीयते च।
संस्कृत-कार्यक्रमाणां विवरणम्- निर्देशाः च।
१. भागयोग्याः संस्कृतकार्यक्रमाः
1. कवितोच्चारणं, 2. गानालपनं, 3. लघुभाषणं, 4. एकाभिनयः, 5. अभिनयगानालापनं (१२ वयस्कपर्यन्तेभ्यः), 6. कथाकथनम्, 7. शब्दानुकरणं, 8. हास्यकणिकावतरणं, 9. नृत्तादिप्रदर्शनं इत्येते श्रव्य-दृश्य-सुभगाः कार्यक्रमाः।(समयः 60-90 Sec.)
२. पञ्जीकरणम्
1. पञ्जीकरणाय अन्तिमतिथिः 2021 July 23 .
निःशुल्क-पञ्जीकरणसूत्रम् ( Link https://forms.gle/7p47RvPwJbVDgNUP9)
2. छात्राणां पञ्जीकरणं विद्यालयेन करणीयम्
(पञ्जीकरण-संख्या २४ होराभ्यन्तरे शिक्षकस्य वाट्साप् मध्ये लप्स्यते।
Each School Can Submit only Three Entries
Each Sanskrit student can participate in one event only.
३. वीडियोखण्डस्य छायाग्रहणम्
1. एकैकः कार्यक्रमः ६० क्षणतः ९० क्षणं यावत् परिमितं भवतु।
2. चलदूरवाणीद्वारा संगृहीतं वीडियोखण्डम् तद्वदेव प्रेषणीयम्। (वीडियो Editing मास्तु )
3. वीडियोखण्डः गुणेन प्रसारणाय योग्यः भवेत्। ( High Quality )
4. वीडियोखण्डः तिरश्चीनतया (horizontal) संगृहीतः भवेत्
४. वीडियोघण्डस्य प्रेषणम्
1. विडियो प्रेषणाय अन्तिमतिथिः 2021 July 29
2. छात्रैः वा विद्यालयैः वा तेषां वीडियोखण्ड: E-mail अथवा टेेेेलग्राम् सुविधा द्वारा प्रेषणीयः।
(E-mail samprativartah@gmail.com Or
Telegram App No: +919400417084)
3. वीडियोखण्डेन सह 1. Registration No:, 2 Name of student, 3 Age, 4 Name of School, 5 State, 6 Country च लेखनीयम्।
___________________________________
Friday, July 16, 2021
दक्षिणाफ्रिक्काराष्ट्रे भारतीयान् प्रति आक्रमणम्। भारतेन आशङ्का आवेदिता।
जोहानस्बर्ग> दक्षिणाफ्रिक्कादेशे भारतीयान् तथा भारतीयवंशजान् प्रति जायमानेषु आक्रमणेषु भारतसर्वकारेण आशङ्का आवेदिता। दक्षिणाफ्रिक्कायाः विदेशकार्य-मन्त्रिणा नलेदि पान्डोरेण सह भारतीयविदेशकार्यमन्त्री डो. जयशङकरः आशयविनिमयः कृतः।
दक्षिणाफ्रिक्कायाः पूर्वराष्ट्रपतिः जेक्कब् सुमा कारागृहे बन्धितः अभवत्। अस्मिन् सन्दर्भे एव तस्य अनुयायिनः आक्रमणम् आरभत। सर्वकारेण शान्तिं पुनस्थापयितुं परिश्रमः आरब्धः इति दक्षिणाफ्रिक्काराष्ट्रस्य विदेशकार्यमन्त्रिणा उक्तम् इति जयशङ्करः अवदत्। न्यायालयालक्ष्यम् इति दोषं कृतवान् इत्यतः एव तस्मै पञ्चदशमासपर्यन्तं कारागारे बन्धनम् अलभत।
Thursday, July 15, 2021
एष्यायां भारतम् अतिक्रम्य कोविडस्य तापबिन्दुः भूत्वा इन्डोनेष्या।
प्रतिदिनं ४०,००० अधिकजनाः रोग बाधिताः।
जक्कार्ता> इन्डोनेष्याराष्ट्रे कोविड् रोगिणां प्रतिदिनसंख्या वर्धते। इतःपर्यन्तं ४०,००० उपरि एव प्रति दिनरोगिणां संख्या। नूतनतया दृढीकृतेषु बहुषु अतिव्यापनक्षमः डेल्टा विभेदः एव अधिकतया दृश्यते। इत्थं इन्डोनेष्या प्रतिदिनरोगिणां वर्धितसंख्यया भारतम् अतिक्रम्य एष्याभूखण्डे कोविडस्य तापबिन्दुः (hot spot) अभवत्। गतसप्ताहादारभ्य भारते प्रतिदिन-कोविड्रोगिणां संख्या ४०,०००तः न्यूना एव। द्वितीयतरङ्गे अतिरूक्षे अनुवर्तिते प्रतिदिनं चर्तुलक्षाधिकरोगिणः भारते आसन्। जून् मासस्य अन्तिमचरणे रोगिणां संख्या न्यूना अभवत्। इन्डोनेष्यायां रोगव्यापनमानं वर्धमाने सन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र नियन्त्रणानि अतिशक्तानि अकुर्वन्।
केरलेषु कोयिलाण्टिदेशे रेल्यानस्योपरि केरवृक्षः पतितः। गमनागमनं भागिकतया स्थगितम्।
कोष़िक्कोट्> कोयिलाण्टिदेशसमीपं रेल्यानस्योपरि केरवृक्षः पतितः। सायंकाले पादोनषट्वादने एव घटना एषा संवृत्ता। कोयिलाण्टि-तिक्कोटिदेशयो: मध्ये एव अपघातः जातः। अनन्तपुर्याः मंगलापुरं प्रति गच्छतः नेत्रावती एक्स्प्रस् नाम रेल्यानस्योपरि एव केरवृक्षः पतितः। जनानाम् अपघातो वा जीवापायो वा न अभवत्। रेल्यानगमनागमनं भागिकतया स्थगितम्। यानयन्त्रस्य हानिः अभवत् इत्यतः कोषिक्कोट् नगरारात् नूतनं यन्त्रम् आनाय्य पुनः सन्निवेश्यानन्तरमेव यात्रां पुनरारब्धुं शक्यते इति रेल्-अधिकारिणा आवेदितम्। वैद्युतिबन्धं विच्छिद्य केरवृक्षं कर्तयितुं परिश्रमः अनुवर्तते।
Wednesday, July 14, 2021
श्रीराम नाम्नि व्योमनिलय:, आध्यात्मिकवनं, क्रूस् सेवा, इत्यादिभिः सह अयोध्याविकासयोजना।
नवदिल्ली> विश्वस्य प्रथमवेदनगरी इति स्वप्नेन सह अयोध्याविकासयोजना प्रधानमन्त्रिणः नरेन्द्रमोदिनः समक्षं समर्पिता। विश्वोत्तरविमान-निलयं, रेल्याननिस्थानकं, श्रीरामस्य वनवासकालचित्रितं रामायण- आध्यात्मिकवनम् इत्यादिभिः सम्पन्ना अतिविशाला भवति एषा योजना। विमानपत्तनं मर्यादापुरुषोत्तम श्रीरामविमाननिलयं इति नाम्ना भविष्यति। अयोध्यां प्रति यानमार्गाः चतुश्रेणीरूपेण षट्श्रेणीरूपेण च राष्ट्रिय- राजमार्गत्वेन परिवर्तयिष्यति। अयोध्यानगरं परितः पञ्चषष्ठिकिलोमीट्टर् दैर्ध्ययुक्तस्य अयोध्यावलययानमार्गस्य (Ayodhya Ring road) निर्माणदायित्वं भारत-राष्ट्रिय -राजमार्ग-प्राधिकरणेषु (national highway authority of India) निक्षिप्तं भवति। अतिश्रद्धेयं तथा अतिविशिष्टम् इति मात्रं वक्तुं शक्यते सरयूतीरस्थं रामायणआध्यात्मिकवनम्। रामस्मृतिवनम् इति योजनाया नाम दत्तम्। अत्र रामस्य सीतायाः लक्ष्मणस्य च चतुर्दशसंवत्सरवनवासस्य सचित्राविष्कारः प्रदर्शशशदष्यति। १२०० एक्कर् विस्तृता वेदनगरीयोजना च अस्मिन् अन्तर्भविष्यति। तत्र आश्रमाः पञ्चनक्षत्रभोजनालयाः च अन्तर्भविष्यन्ति। एवं भारतीयेतिहासविशेषं रामायणं वनरूपेण नूतनपरम्परायाः समक्षं साक्षात्कारमेष्यति ।








