डीएवी उत्तरप्रदेश अ परिक्षेत्रे शिक्षकेभ्यः त्रिदिवसीया क्षमतासंवर्धनकार्यक्रमः समायोजितः।
-वत्सदेशराजशर्मा
सम्भल जनपदस्य बबरालानगरस्थ डीएवी फर्टिलाइजर पब्लिक् विद्यालये विज्ञान, आङ्गल, संस्कृत विषयाध्यापकानां कृते त्रिदिवसीया कार्यशालायाः गुरुवासरे सम्पूर्तिः सञ्जाता।
अस्याः क्षमता-संवर्धन-कार्यशालायाः डीएवी शैक्षिकोत्कृष्टताकेन्द्रः, नवदेहली द्वारा उत्तरप्रदेश परिक्षेत्रम् अ इत्यस्य षट् विद्यालयानां संस्कृतभाषा, आङ्ग्लभाषा, विज्ञानविषयस्य शिक्षकाणां कृते आयोजनं कृतमासीत्।
कार्यक्रमस्यारम्भे उद्घाटनसत्रे आयोजकविद्यालयस्य प्रधानाचार्य महोदयः आनन्दस्वरूप-सारस्वतमहोदयः उक्तवान् यत् प्रत्येकः विषयः विभिन्नगतिविधिमाध्यमेन पाठनीयः एवञ्च सा विधिरपि छात्रेभ्यः रुचिपूर्णा स्यात्। विषयं वास्तविकजीवनेन सह योजनाय शिक्षकाः प्रेरिताः।
मुख्यातिथिरूपेण औरैयाजनपदस्थ गेल् डीएवी मॉडल विद्यालय, दिबियापुर इति विद्यालयस्य प्रधानचार्यः राजीवकुमारपाण्डेयः उपस्थितः आसीत्। अस्मिन् त्रिदिवसीयां कार्यशालायां डीएवी पब्लिक् विद्यालयः, बीना परियोजना, गेल डीएवी मॉडल विद्यालय, गेल डीएवी पब्लिक विद्यालयः, दिबियापुर, डीएवी एनयूपीपीएल, कर्णपुरः आयोजकविद्यालयः डीएवी फर्टिलाइजर पब्लिक विद्यालयः, बबराला समेत्य अष्टाविंशतिः अध्यापकाः अध्यापिकाश्च प्रतिभागिरूपेण भागं गृहीतवन्तः।







.jpg)





.webp)

.webp)
