OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 18, 2019

समर्थनगरनिर्माणम् - उन्नावदेशे कृषकारक्षकयोः मिथःप्रहरः।
      लख्नौ> उत्तरप्रदेशस्य  उन्नावे आयोक्ष्यमाणायाः समर्थनगर-परियोजनायाः कृते स्वीकृतभूसंबन्ध तर्कः कृषकारक्षकयोः मिथःप्रहरस्य कारणम् अभवत्। कृषकाणां पार्श्वतः आरक्षकान् प्रति पाषाणक्षेपः अजायत। तदा आरक्षकाः दण्डप्रक्रमः  अकुर्वन्I नगर निर्माणाय आनीतानि उपकरणानि प्रतिषिद्धाः अग्निसात्  कृतानि। 'ट्रान्स् गङ्गा' इति परियोजनायाः प्रदेशे एव घटना अजायत्। भूनष्टस्य परिहारः इतःपर्यन्तं न लब्धः इति प्रतिषेधिनः वदन्ति। किन्तु परिहारधनं सर्वं दत्तमस्ति इति अधिकारिणः वदन्ति। समर्थनगरस्य निर्माणं रोद्धुं केचन प्रयत्नं कुर्वन्ति इत्यपि परियोजनायाः नेतृजनैः उक्तम्।