OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 22, 2019

श्वासकोशः स्प्रोञ्चः इव, ३० संवसराणि यावत्  धूमपानं कृतवतः श्वासकोशस्य चित्रं प्रसार्य भिषग्वराः। 

  बैजिङ्> श्वासकोशः स्प्रोञ्चः इव इति विज्ञप्तिवाक्यात् विमुखेभ्यः कृते ३० संवसराणि यावत्  धूमपानं कृतवतः श्वासकोशस्य चित्रं  भिषग्वरै प्रसारितम्।  धूम्रपाने अनुरक्तस्य मृतस्य कस्यचन मनुष्यस्य श्वासकोशस्य चित्राणि एव इदम्। चीनराष्ट्रस्य जियाङ्सुदेशस्थ वूसि पीपिल् आतुरालयस्य भिषग्वराः एव  एतस्य चित्रं प्रसारितवन्तः। मरणानन्तरं स्वस्य शरीरावयवाः दानंकर्तुं सम्मतिपत्रं दत्वा ५२ तमे वयसि मृत्युपदं प्राप्तवान् सः। शल्यद्वारा बहिरानीताः अवयवाः उपयोग-क्षमताहीनाः असीत्‌ इति भिषग्वराः वदन्ति। साधारणतया एकस्य श्वासकोशस्य PINK वर्णः भवति। किन्तु अस्य श्वासकोशः श्यामवर्ण (charcoal) युक्तः आसीत्। अत एव चित्राणि जन-सञ्चारमाध्यमेन प्रसारिताणि। चित्रं दृष्ट्वा वा मनसः परिवर्तनं भवतु इति ते चिन्तितवन्तः।