OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 24, 2019

माहाराष्ट्रे सर्वकारः आयोजितः।  शिवसेना, एन् सि पि, कोण्ग्रस् दलानि सर्वोच्चन्यायालयं प्रतिI 
    नवदिल्ली> महाराष्ट्रस्य  सर्वकार रूपीकरणं विरुद्ध्य शिवसेना, एन् सि पि, कोण्ग्रस् दलानि सर्वोच्चन्यायालयं गमिष्यन्तिI झटित्येव नियसभाम् आयोज्य  विश्वासमतदानं करणीयमिति संयुक्तयाचिकया न्यायालयं प्रति प्रार्थिष्यन्ते।  याचिका झटित्येव आवेक्षणीया इत्यस्ति तेषाम् अर्थना। महाराष्ट्रस्य राज्यपालस्य त्वरितप्रक्रमान् विरुद्ध्य अस्ति याचिका। भूरिपक्षालम्बः अस्ति वा इति अदृष्वा एवफट्नाविसं शपथग्रहणाय अवसरः दत्तः इति भवति विपक्षीयानां विमर्शः। न्यायवादी कपिल सिबलः मनु अभिषेक् सिङ्वि च कोण्ग्रस् दलस्य कृते न्यायपीठस्य पुरतः उपस्थितौ भविष्यतः॥