OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 28, 2019

विद्यालयेषु जलपानाय विशेषसमयः, छात्रेषु नर्जलीकरण-निवारणाय

  पनाजि> गोवप्रदेशस्य शैक्षिकविभागेन छात्राणां स्वास्थ्याय नूतना योजना समारब्धा। कक्ष्यायां द्वयोः अध्ययन-कालांशयोः मध्ये एव जलपानाय सन्दर्भः दीयते।  जलपानाय घण्डानादः  प्रतिदिनं द्विवारं  करणीयः। निमेषद्वययुतं  भवितव्यं जलपानस्य कालांशः। एतत् सम्बन्ध्य गोवस्य शैक्षिकाध्यक्षेण षैलेष् सिनाय् सिङ्डे वर्येण विद्यालयान् प्रति निर्देशः प्रेषितः। विद्यालयेषु छात्राः आवश्यकं जलं न पिबन्ति। अतः निर्जलीकरणेन स्वास्थ्यहानिः भविष्यति इत्यनेन अनुसन्धानेन भवति नूतननिर्णयः। शिशूनां विद्यालयतः उच्चतरविद्यालयं यावत् इयं परियोजना आयोक्ष्यते।