OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 20, 2019

उत्तरकोरियेन कृतम् अणुपरीक्षणं हिरोषिमा विस्फोटतः १७ गुणितं शक्तम् - ऐ एस् अर् ओ।

  नवदिल्ली> उत्तरकोरियेन कृतम् आणवपरीक्षणं हिरोषिमा विस्फोटतः १७ गुणितं शक्तम् इति ऐ एस् आर् ओ इति संस्थया कृतानुसन्धाने प्रत्यभिज्ञातम्। जियोसफिकल् इन्टर् नाषणल् इति पत्रिकायाम् अध्ययन फलं प्रकाशितम्।
   २४५ तः २७१ टण् मितं विस्फोटकवस्तूनि परीक्षणाय उपयुक्तातानि। द्वितीये लोकमहायुद्धे १९४५ तमे  हिरोषिमा विस्फोटघटनायां  १५ टण् विस्फोटकम् उपयुक्तम् आसीत्।  विस्फोटनस्य तीव्रतामापनाय उपग्रह-चित्राणि विवरणानि च अध्ययनाय उपयुक्तानि।