OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 14, 2019

भारतीयवैज्ञानिकाय ब्रिक्स् पुरस्कारः।
  रियो डे जनीरो> भारतीयस्य वैज्ञानिकगवेषकस्य रविप्रकाशस्य कृते २५००० डोलर्मूल्यपरिमितः 'ब्रिक्स् यङ्‌ इन्नवेटर्' पुरस्कारः। प्रथमतया एव एकेन भारतीयेन पुरस्कारोऽयं प्राप्तः वर्तते। रविप्रकाशेन ग्रामीणक्षीरकर्षकेभ्यः क्षीरशीतीकरणकेन्द्रं तद्‌देशीयतया आविष्कृतं वर्तते। अस्मै प्रवर्तनाय एव ब्रिक्स् पुरस्कारः लब्धः। रविप्रकाशेन ऐकार् नाषणल् रिसर्च् डयरी इन्स्टिट्यूषन् बङ्गलुरुतः गवेषणबिरुदं सम्पादितं वर्तते। ब्रसील् देशे ब्रिक्स् उन्नतयोगसम्बन्धतया आयोज्यमाने युववैज्ञानिकानां मेलने रविप्रकाशः भारतस्य प्रतिनिधिः भवति। बीहार् स्वदेशी भवति रविः।