OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 15, 2019

राक्षसपादमुद्रा लब्धा,  हिमयुग-जीवजालान् अधिकृत्य अधिकं ज्ञानं लब्धुम् अवसरः जायते।

(GPR उपयुज्य चित्राणि गृह्यन्ते। चित्रम् कोर्णल् विश्वविद्यालयेन स्वीकृतम्।)
    मानवानाम् अन्येषां जीविवर्गाणां हिमयुगस्य (Ice Age) जीवनम् अधिकृत्य अधिक विवरणानि लब्धुम् अवसरः जायते। भौमान्तर्भागे हिमयुगस्य राक्षसमनुष्यस्य बृहदाकारा पादमुद्रा दृष्टा।  भौमान्तर्गत वस्तून प्रत्यभिज्ञातुं सहायकं 'ग्रौण्ट् पेनट्रेट्टिङ्  रडार्  (GPR) उपयुज्य यु एस् राष्ट्रस्थ कोर्णल् विश्वविद्यालयेन कृतानुसन्धाने एव हिमफलकानामधः पादमुद्रा अदृष्टा। सूष्म-जीवावशिष्ट-निक्षिप्ता भवति इयं पादमुद्रा भवति। अधुना गृहीतस्य मृतावशिष्टस्य 12,000 संवत्सराणां पुरातनत्वम् अस्ति इति अनुमीयते।  नूतनं प्रत्यभिज्ञानं भूमुखात् अप्रत्यक्षाणां जीविवर्गाणां शारीरिकं रूपं तेषां चलनं जीवकोशानां रूपसज्जता इत्यादि विषयान् अधिकृत्य नूतनं प्रत्यभिज्ञानं लभते  इति विश्वविद्यालयस्य वैज्ञानिकः थोमस् अर्बन् वदति।