OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 14, 2019

वायुप्रदूषणम् - केन्द्रसर्वकारं विमर्श्य उच्चतरन्यायालयः।
   नवदहली> दहलीमध्ये प्रतिदिनं वर्धमानं वायुप्रदूषणं प्रति केन्द्रसर्वकारस्योपरि उच्चतरन्यायालयस्य रूक्षविमर्शः। राजधान्यां तथा उत्तरभारतस्य केषुचित् प्रदेशेषु च वायुप्रदूषणं नियन्त्रणातीतं जातमासीत्। विषयेऽस्मिन् केन्द्रसर्वकारेण आवश्यकी श्रद्धा नैव दत्ता इति न्यायालयेन निरीक्षितम्। अन्तरिक्षमलिनीकरणं प्रतिरोद्धुं हैड्रजनधिष्ठितां इन्धनसाङ्केतिकविद्याम् उपयोक्तुं शक्यते वा इति केन्द्रसर्वकारं न्यायालयेन अन्विष्टम्। अन्तरिक्षमलिनीकरणं परिहर्तुं जापानस्थसाङ्केतिकविद्या स्वीक्रियते इति केन्द्रसर्वकारेण प्रतिवचनं दत्तम्। विषयेऽस्मिन् डिसम्बर् तृतीयदिनाङ्‌काभ्यन्तरे सर्वकारः अवलोकनं समर्पयिष्यति। विषयेऽस्मिन् जापानस्थेन विश्वविद्यालयेन गवेषणं कृतं वर्तते, गवेषणेऽस्मिन् हैड्रजनधिष्ठितां साङ्केतिकविद्यां सम्बन्ध्य निर्देशः वर्तते इति च केन्द्रसर्वकाराय नियमोपदेशप्रमुखः तुषार् मेहतः न्यायालयं न्यवेदयत्।