OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 25, 2019

संस्कृतपण्डितः महागुरुः अच्युतपिषारटिवर्यः दिवङ्गतः।
   
   पट्टाम्बि> संस्कृत-पण्डितः के पि अच्युतपिषारटिवर्यः दिवङ्गतः। अद्य उषसि आसीत् तस्य निधनः।  महोदयस १०९ वयः आसीत्। वार्धक्य सहजरोगेण सः पीडितः आसीत्। अद्य ११ वादने तस्य भौतिकं शरीरम् आतुरालयतः गृहम् आनयिष्यति।
   अस्य पिता पुतुश्शेरि ब्राह्मणगृहजस्य पशुपतिवर्यः माता कोटिक्कुन्नत्त् तृक्कोविल् पिषारत्त् नारायणिक्कु्ट्टि पिषारस्यार् वर्या च भवतः। तथा एष धन्यात्मा पट्टाम्बि पुन्नश्शेरि नीलकण्ठशर्मवर्यस्य मुखतः संस्कृताध्यनमकरोत्I
  १०३९ तमे , वर्षे अध्यापकपदे न्ययुङ्क्तोऽभवत्। पण्डितरत्नं, देवीप्रसादम्   इत्यादिभिः बहुभिः पुरस्कारैः पण्डितोऽयं समादृतः अभवत्। जीवितान्त्यं यावत् कर्मणि निरतस्य अस्य वियोगः न केवलं तत् समाजस्य किन्तु सर्वेषामपि सज्जनकुलानां महान् नष्ट एव।
 संस्कृतप्रचारणं दिनचर्यारूपेण स्वीकृतवान् पण्डितः। 
   षण्मासेभ्यः पूर्वं यावत् कोटिक्कुन्नत्तु पिषारद्भवने 'पिषारटि वर्यं' परितः शिष्यजनानां महान् सम्मर्दः आसीत्। लालित्यपूर्णेन मन्दस्मितेन संस्कृतभाषानुबन्धाः बहवः सन्देहाः विविधस्तराणां जनानां पुरतः छिन्नाः अभवन्। संस्कृत भाषाकुतुकिनः, छात्राः, अध्यापकाः, गवेषकाः, भागवतसप्ताहेषु आचार्यस्थानं वहन्तः ये के अपि सन्देहनिवारणार्थम् आगच्छन्तः रिक्तहस्तेन प्रतिगतवन्तः नासन्। 
  पुन्नश्शेरि नीलकण्ठशर्मणः शिष्योत्तमेषु अन्तिमं दलमस्ति  अच्युतप्पिषारटिः।
(वार्तायाः आकलनम् - नववाणी  सम्प्रतिवार्ताश्च।)