OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 9, 2019

संस्कृतभारत्याः प्रथम विश्वसम्मेलनं  समारब्धम्।  
   नवदिल्ली> संस्कृतं जनभाषां कर्तुम् अश्रान्तपरिश्रमं कुर्वता विश्वस्तरीय संघटना भवति संस्कृतभारती। अस्याः  प्रथम-विश्वसम्मेलनस्य उद्घाटनं केद्रीय चिकित्सा-स्वास्थ्य  तथा विज्ञान-प्रौद्योगिकी मंत्री डॉ हर्षवर्धनः अकरोत्। मेलने समागतानां संस्कृतप्रेमिणां  सङ्ख्यां दृष्ट्वा अत्भुतं तथा संतृप्तिः च अनुभवामि  इति हर्षवर्धन-महोदयेन उक्तम् I विश्वस्य विभिन्नेभ्यः २१ राष्ट्रेभ्यः ७१ प्रतिनिधयः अत्र समागताः सन्ति। भारतस्य  बहिः लक्षं जनाः संस्कृतं पठन्तः सन्ति। आभारतं १ कक्ष्यातः १२ कक्ष्या पर्यन्तं  त्रिकोटि छात्राः संस्कृतं पठन्ति इति गणनां कृत्वा तेन उक्तम्। विश्वमहा मेलनस्य उद्‌घाटनं कुर्वन् भाषमाणः आसीत् सः। 
संस्कृतलोके  सुज्ञातः लोकसभा सदस्यः प्रतापचन्द्र  षडङ्गी संस्कृतस्य महत्वं स्वात्मभाषणे सरलतया कृतं चI