OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 11, 2019

कर्तार्पुरमार्गः उद्‌घाटितः - इम्रान्खानं कृतज्ञतां वितीर्य नरेन्द्रमोदी।
  सुल्त्तान्पुर् > गुरुदास्पुरस्थदेराबाबनानाकतः कर्तार्पुरमार्गस्य संयोजितविरामस्थाण्वोः उद्‌घाटनं भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। विषयेऽस्मिन् भारतस्य तात्पर्यमपि अङ्गीकृतवन्तं पाक् प्रधानमन्त्रिणम् इम्रान्खानं मोदी कृतज्ञतां न्यवेदयत्। गुरुनानाकस्य ५५० तमजन्मवार्षिकवेलायाम् अस्यां कर्तार्पुरमार्गस्य उद्‌घाटनं साधितमित्येतत् महान्तं सन्तोषं ददाति इति उद्‌घाटनभाषणे मोदी अवदत्। गुरोः ५५०तमे जन्मदिने आदरसूचकतया ५५० रुप्यकस्य स्मारकनाणयं प्रसिद्धीकरिष्यतीति मोदिना सूचितम्।