OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 28, 2019

राज्यस्तरीयः विद्यालयकलोत्सवः अद्य आरभते।
एष्याभूखण्डस्य बृहत्तमा कौमारमेला।
काञ्ञड्ङाट् > केरलराज्यस्य ६०तमः विद्यालयीयकलोत्सवः कासर्गोड् जनपदस्थे काञ्ञङ्ङाट् प्रदेशे अद्य समारभते। अद्य आरभ्य डिसंम्बर् प्रथमदिनाङ्कपर्यन्तं २८ वेदिकासु प्रचाल्यमाने कलोत्सवे १४ जनपदेभ्यः  उपदशसहस्रं छात्रप्रतिभाः स्पर्धिष्यन्ते। 
  स्पर्धिष्यमानेभ्यः सर्वेभ्यः छात्रेभ्यः चषकान् वितरीतुं निर्णयः कृतः। जनपदस्तरीयासु प्रचलितासु स्पर्धासु प्रथमस्थानं प्राप्तवन्तः कलासाहित्यप्रतिभा एव राज्यस्तरीयस्पर्धायां भागं कुर्वन्ति।