OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 21, 2019

केरलराज्यस्तरीय-वरिष्ठनागरिकाणां क्रीडास्पर्धा २३ दिनाङ्के। 
   कोच्ची> ६० वयः उपरिष्टात् वरिष्ठानां नागरिकाणां कायिकस्पर्धा नवंबर् मासस्य त्रयोविंशति दिनाङ्के  प्रचालयिष्यति। महाराजास् कलाशालायाः क्रीडाङ्कणे भवति इयं स्पर्धा। स्पर्धार्थिनः अस्मिन् दिने प्रातः ७.३० वादने वयःप्रकाश्यमानेन प्रमाणेन सह आगन्तव्याः इति आयोजकाः वदन्ति।
   जिल्ला नियमसेवा आयोगः, एज् फ्रण्ट्लि एरणाकुलम्, केरल स्टेट्‌ स्पोर्स् कौण्सिल् , इन्ट्यन् मेडिक्कल् असोसिएषन्, केरल सर्वकारीय स्वस्थ्यविभागः अन्ये सेवादलानि च संयुक्ततया प्रचालयन्ति अमुं कार्यक्रमम्।
    स्वस्थे शरीरे एव स्वस्थं मनः स्थास्यति। अतः जीवने उभयस्यापि प्राधान्यं विद्यते। तदर्थं क्रियमाणः प्रयत्नः भवति अयं कार्यक्रमः इति आयोजकाः वदन्ति। 9074241011, 9496712249 इति भवतः आयोजकानां दूरभाषा सङ्ख्ये।