OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 13, 2019

वनाग्निदुरन्ते ओस्ट्रेलिया; अतितापः अनिलः च अग्निशमने बाधा।
     सिड्नि> अतिगुरुतरं अग्निसङ्क्रमणं प्रतिरोद्धुम् अशक्ताः भूत्वा ओस्ट्रेलिय राष्ट्रस्य अग्निशमनसेना। अन्तरिक्षतापमानस्य वर्धनं शुष्कः वातावरणं शक्तः वातः च अग्निशमन प्रवर्तनानि दुष्करं कृत्वा भाययन्ति। न्यू सौत् वेयिल्स् इत्यत्र मङ्गलवासरे तापमानं  ३७ डिग्रि अभवत्। प्रतिहोरायां ६५ किलोमीट्टर्  आसीत् वातस्य वेगःI  न्यू सौत् वेयिल्स्, कीन्स् लान्ट् प्रदेशयोः सर्वकारेण द्रुतप्रक्रमः प्रख्यापितः आसीत्l त्रयः जनाः मृताः शतं व्रणिताः  सहस्रशाः गृहं परित्यक्त्वा पलायिताः च। द्वयोः राज्ययोः सप्ताहाभ्यन्तरे १२० प्रदेशेषु अग्निः ज्वलिता। एतेषु ५० स्थानेषु इतःपर्यन्तम् अग्निः नियन्त्रणाधीतं वर्तते। सिड्णि नगरप्रान्तेषु अपि जाग्रतानिर्देशः प्रख्यापितः अस्ति। १० लक्षं हेक्टर् मितं भूप्रदेशः २०० गृहाणि च भग्नाः।