OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 18, 2019

संस्कृताभियानम्
नमांसि!
   संस्कृतप्रचाराय बहुविधाः कार्यक्रमाः क्रियन्ते। बह्व्यः संस्थाः कार्यं कुर्वन्ति च। विविधकक्ष्याः, सभाः, सङ्गोष्ठ्यः, सम्मेलनानि, पुस्तकप्रकाशनम्, पाण्डुलिपिग्रन्थसम्पादनम्, स्पर्धाः, प्रदर्शिन्यः, शोधकार्याणि इत्येतानि सर्वाणि उत्तमानि एव। अवश्यं करणीयानि एव। तैः संस्कृतस्य अधोगतिः अवरुद्धा भवेत्, वृद्धिः अपि भवति भागशः। यथास्थितिरक्षणं वा भवेत्। परन्तु यावत् विद्यालय-महाविद्यालय-विश्वविद्यालयेषु जायमानासु संस्कृतकक्ष्यासु संस्कृतभाषा न आगच्छेत् तावत् उपरितनानां सर्वेषां कार्याणां स्वल्पः परिमितः एव परिणामः भवेत्। मित्राणि, संस्कृतकक्ष्यासु संस्कृतम् आनेतुं प्रयत्नं कुर्मः।
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्,  कविकुलगुरु कालिदास-विश्वविद्यालयःI महाराष्ट्रम्।