OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 18, 2021

 बङ्गलादेशस्य स्वतन्त्रतादिनोत्सवे भारतराष्ट्रपतिः मुख्यातिथिः। 

धाक्का> बङ्गलादेशविमोचनयुद्धस्य सुवर्णप्रहर्षस्य अंशतया आयोजिते विजयदिनसंचलने भारतस्य राष्ट्रपतिः रामनाथकोविन्दः मुख्यातिथिरूपेण भागं स्वीकृतवान्। विमोचनयुद्धस्य ५० तमसंवत्सरीयोत्सवम् आघुष्यमाणस्य बङ्गलादेशस्य सैनिकशक्तिं प्रमाणीकृतं सैनिकसञ्चलनमासीत् धाक्कायां राष्ट्रियसंचलनभूमौ सम्पन्नम्। 

  बङ्गलादेशस्य राष्ट्रपतिः एम् अब्दुल् हमीदः प्रधानमन्त्रिणी षैक् हसीना अपरे मन्त्रिणः विशिष्टातिथयश्च रामनाथकोविन्देन सह संचलनं वीक्षितवन्तः। भारतात् १२२अङ्गयुक्तः सेनासंघ अपि संचलने भागं स्वीकृतवान्।